महालक्ष्मी अष्टकम्

महालक्ष्मी अष्टकम्

॥ महालक्ष्म्यष्टकम् ॥

नमस्तेऽस्तु
महामाये
श्रीपीठे
सुरपूजिते
।
शङ्खचक्रगदाहस्ते
महालक्ष्मि
नमोऽस्तुते
॥1॥

नमस्ते
गरुडारूढे
कोलासुरभयङ्करि
।
सर्वपापहरे
देवि
महालक्ष्मि
नमोऽस्तुते
॥2॥

सर्वज्ञे
सर्ववरदे
सर्वदुष्टभयङ्करि
।
सर्वदुःखहरे
देवि
महालक्ष्मि
नमोऽस्तुते
॥3॥

सिद्धिबुद्धिप्रदे
देवि
भुक्तिमुक्तिप्रदायिनि
।
मन्त्रमूर्ते
सदा
देवि
महालक्ष्मि
नमोऽस्तुते
॥4॥

आद्यन्तरहिते
देवि
आद्यशक्तिमहेश्वरि
।
योगजे
योगसम्भूते
महालक्ष्मि
नमोऽस्तुते
॥5॥

स्थूलसूक्ष्ममहारौद्रे
महाशक्तिमहोदरे
।
महापापहरे
देवि
महालक्ष्मि
नमोऽस्तुते
॥6॥

पद्मासनस्थिते
देवि
परब्रह्मस्वरूपिणि
।
परमेशि
जगन्मातर्महालक्ष्मि
नमोऽस्तुते
॥7॥

श्वेताम्बरधरे
देवि
नानालङ्कारभूषिते
।
जगत्स्थिते
जगन्मातर्महालक्ष्मि
नमोऽस्तुते
॥8॥

महालक्ष्म्यष्टकं
स्तोत्रं
यः
पठेद्भक्तिमान्नरः
।
सर्वसिद्धिमवाप्नोति
राज्यं
प्राप्नोति
सर्वदा
॥9॥

एककाले
पठेन्नित्यं
महापापविनाशनम्
।
द्विकालं
यः
पठेन्नित्यं
धनधान्यसमन्वितः
॥10॥

त्रिकालं
यः
पठेन्नित्यं
महाशत्रुविनाशनम्
।
महालक्ष्मीर्भवेन्नित्यं
प्रसन्ना
वरदा
शुभा
॥11॥

॥ इति इन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥

आज का ज्योतिषीय विचार

“आकाशीय घटनाएँ मानव जीवन पर असर डालती हैं।”

— वराहमिहिर